अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 24
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घटो॑ वि॒दुः। वयां॑सि हं॒सा या वि॒दुर्याश्च॒ सर्वे॑ पत॒त्त्रिणः॑। मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ॥
स्वर सहित पद पाठया: । सु॒ऽप॒र्णा: । आ॒ङ्गि॒र॒सी: । दि॒व्या: । या: । र॒घट॑: । वि॒दु: । वयां॑सि । हं॒सा: । या: । वि॒दु: । या: । च॒ । सर्वे॑ । प॒त॒त्रिण॑: । मृ॒गा: । या: । वि॒दु: । ओष॑धी: । ता: । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२४॥
स्वर रहित मन्त्र
याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः। वयांसि हंसा या विदुर्याश्च सर्वे पतत्त्रिणः। मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥
स्वर रहित पद पाठया: । सुऽपर्णा: । आङ्गिरसी: । दिव्या: । या: । रघट: । विदु: । वयांसि । हंसा: । या: । विदु: । या: । च । सर्वे । पतत्रिण: । मृगा: । या: । विदु: । ओषधी: । ता: । अस्मै । अवसे । हुवे ॥७.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 24
विषय - रोग के विनाश का उपदेश।
पदार्थ -
(याः) जिन (आङ्गिरसीः) ऋषियों करके बताई हुईं [ओषधियों] को (सुपर्णाः) गरुड़, गिद्ध आदि, (याः) जिन (दिव्याः) दिव्य [ओषधियों] को (रघटः) आकाश में फिरनेवाले [जीव] (विदुः) जानते हैं, (याः) जिनको (वयांसि) पक्षी (हंसाः) हंस, (च) और (याः) जिन को (सर्वे) सब (पतत्त्रिणः) पंखवाले जीव (विदुः) जानते हैं, (याः ओषधीः) जिन ओषधियों को (मृगाः) बनैले पशु (विदुः) जानते हैं, (ताः) उन सबको (अस्मै) इस [पुरुष] के लिये (अवसे) रक्षा के हित (हुवे) मैं बुलाता हूँ ॥२४॥
भावार्थ - मन्त्र २३ के समान ॥२४॥
टिप्पणी -
२४−(याः) ओषधीः (सुपर्णाः) अ० २।३०।३। सुपतनाः-निरु० ३।१२। गरुडगृध्रादयः (आङ्गिरसीः) म० १७। अङ्गिरोभिः प्रोक्ताः (दिव्याः) श्रेष्ठाः (याः) (रघटः) रघि गतौ-अच्, नुम् लोपः+अट गतौ क्विप्, शकन्ध्वादिरूपम्। रघे गन्तव्ये आकाशे अटनशीलाः (विदुः) जानन्ति (वयांसि) अ० २।३०।३। पक्षिणः (हंसाः) अ० ६।१२।१। पक्षिविशेषाः (पतत्त्रिणः) पक्षयुक्ता जन्तवः (मृगाः) अ० ३।१५।१। अरण्यपशवः। अन्यत्पूर्ववत् ॥