अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 6
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - ओषधि समूह सूक्त
जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। अ॑रुन्ध॒तीमु॒न्नय॑न्तीं पु॒ष्पां मधु॑मतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठजी॒व॒लाम् । न॒घ॒ऽरि॒षाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । अ॒रु॒न्ध॒तीम् । उ॒त्ऽनय॑न्तीम् । पु॒ष्पाम् । मधु॑ऽमतीम् । इ॒ह । हु॒वे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥७.६॥
स्वर रहित मन्त्र
जीवलां नघारिषां जीवन्तीमोषधीमहम्। अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥
स्वर रहित पद पाठजीवलाम् । नघऽरिषाम् । जीवन्तीम् । ओषधीम् । अहम् । अरुन्धतीम् । उत्ऽनयन्तीम् । पुष्पाम् । मधुऽमतीम् । इह । हुवे । अस्मै । अरिष्टऽतातये ॥७.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 6
विषय - रोग के विनाश का उपदेश।
पदार्थ -
(जीवलाम्) जीवन देनेवाली, (नघारिषाम्) न कभी हानि करनेवाली, (जीवन्तीम्) जीव रखनेवाली, (अरुन्धतीम्) रोक न डालनेवाली, (उन्नयन्तीम्) उन्नति करनेवाली, (पुष्पाम्) बहुत पुष्पवाली, (मधुमतीम्) मधुर रसवाली (ओषधीम्) तापनाशक [अन्न आदि ओषधि] को (इह) यहाँ (अस्मै) इस [पुरुष] को (अरिष्टतातये) शुभ करने के लिये (अहम्) मैं (हुवे) बुलाता हूँ ॥६॥
भावार्थ - मनुष्यों को परीक्षणपूर्वक उत्तम-उत्तम पदार्थों का सेवन करना चाहिये ॥६॥ यह मन्त्र कुछ भेद से आ चुका है-अ० ८।२।६ ॥
टिप्पणी -
६−(अरुन्धतीम्) अ० ४।१२।१। अवारयित्रीम् (उन्नयन्तीम्) उन्नतिकरीम् (पुष्पाम्) अर्शआद्यच्, टाप्। बहुपुष्पवतीम् (मधुमतीम्) माधुर्योपेताम्। अन्यत्पूर्ववत्-अ० ८।२।६ ॥