अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 25
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - ओषधि समूह सूक्त
याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑। ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥
स्वर सहित पद पाठयाव॑तीनाम् । ओष॑धीनाम् । गाव॑: । प्र॒ऽअ॒श्नन्ति॑ । अ॒घ्न्या: । याव॑तीनाम् । अ॒ज॒ऽअ॒वय॑: । ताव॑ती: । तुभ्य॑म् । ओष॑धी: । शर्म॑ । य॒च्छ॒न्तु॒ । आऽभृ॑ता: ॥७.२५॥
स्वर रहित मन्त्र
यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यावतीनामजावयः। तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥
स्वर रहित पद पाठयावतीनाम् । ओषधीनाम् । गाव: । प्रऽअश्नन्ति । अघ्न्या: । यावतीनाम् । अजऽअवय: । तावती: । तुभ्यम् । ओषधी: । शर्म । यच्छन्तु । आऽभृता: ॥७.२५॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 25
विषय - रोग के विनाश का उपदेश।
पदार्थ -
(यावतीनाम्) जितनी (ओषधीनाम्) ओषधियों का (अघ्न्याः) न मारने योग्य (गावः) गौवें और (यावतीनाम्) जितनी [ओषधियों] का (अजावयः) भेड़ बकरी (प्राश्नन्ति) चारा करती हैं, (तावतीः) उतनी सब (आभृताः) यथावत् पुष्ट की हुई (ओषधीः) ओषधियाँ (तुभ्यम्) तुझ को (शर्म) सुख (यच्छन्तु) देवें ॥२५॥
भावार्थ - मन्त्र २३ के समान ॥२५॥
टिप्पणी -
२५−(यावतीनाम्) यत्परिमाणानाम् (गावः) धेनवः (प्राश्नन्ति) प्राशनं कुर्वन्ति (अघ्न्याः) अ० ३।३०।१। अहन्तव्याः (अजावयः) अजाश्च अवयश्च ते। छागमेषादयः (तावतीः) तत्परिमाणाः (शर्म) सुखम् (यच्छन्तु) ददतु (आभृताः) सम्यक् पोषिताः। अन्यद् गतम् ॥