अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 5
सं॑दं॒शानां॑ पल॒दानां॒ परि॑ष्वञ्जल्यस्य च। इ॒दं मान॑स्य॒ पत्न्या॑ न॒द्धानि॒ वि चृ॑तामसि ॥
स्वर सहित पद पाठस॒म्ऽदं॒शाना॑म् । प॒ल॒दाना॑म् । परि॑ऽस्वञ्जल्यस्य । च॒ । इ॒दम् । मान॑स्य । पत्न्या॑: । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.५॥
स्वर रहित मन्त्र
संदंशानां पलदानां परिष्वञ्जल्यस्य च। इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥
स्वर रहित पद पाठसम्ऽदंशानाम् । पलदानाम् । परिऽस्वञ्जल्यस्य । च । इदम् । मानस्य । पत्न्या: । नध्दानि । वि । चृतामसि ॥३.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 5
Subject - The Good House
Meaning -
Of the house of protection and honour of the family, we firm up the bonds of clamps and connections, weather materials of roofing and wainscoting, and the total bonding of walls, corners and the roof for total balancing of the building.