अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 24
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदमसंख्ये॒यं स्वम॑स्मि॒न्निवि॑ष्टम्। तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द्दे॒वो रो॑चत ए॒ष ए॒तत् ॥
स्वर सहित पद पाठश॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । अ॒स॒म्ऽख्ये॒यम् । स्वम् । अ॒स्मि॒न् । निऽवि॑ष्टम् । तत् । अ॒स्य॒ । घ्न॒न्ति॒ । अ॒भि॒ऽपश्य॑त: । ए॒व । तस्मा॑त् । दे॒व: । रो॒च॒ते॒ । ए॒ष: । ए॒तत् ॥८.२४॥
स्वर रहित मन्त्र
शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन्निविष्टम्। तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचत एष एतत् ॥
स्वर रहित पद पाठशतम् । सहस्रम् । अयुतम् । निऽअर्बुदम् । असम्ऽख्येयम् । स्वम् । अस्मिन् । निऽविष्टम् । तत् । अस्य । घ्नन्ति । अभिऽपश्यत: । एव । तस्मात् । देव: । रोचते । एष: । एतत् ॥८.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 24
Translation -
A hundred, a thousand, ten thousand, a hundred million, an innumerable wealth is laid in Him. That they strike upon even as He looks on. And therefrom this Lord shines forth here. (Satam = 100; sahasram = 1000; ayutam = 10000; nyarbudam= a hundred million)