अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 11
ए॒तद्वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥
स्वर सहित पद पाठए॒तत् । व॒: । ज्योति॑: । पि॒त॒र॒: । तृ॒तीय॑म् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । अ॒ज: । तमां॑सि । अ॑प । ह॒न्ति॒ । दू॒रम् । अ॒स्मिन् । लो॒के । श्र॒त्ऽदधा॑नेन । द॒त्त: ॥५.११॥
स्वर रहित मन्त्र
एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति। अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥
स्वर रहित पद पाठएतत् । व: । ज्योति: । पितर: । तृतीयम् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति । अज: । तमांसि । अप । हन्ति । दूरम् । अस्मिन् । लोके । श्रत्ऽदधानेन । दत्त: ॥५.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 11
Translation -
O elders, this is your third light, the unborn, made of fivefold pulp meshed grain, that one offers to an intellectual person. The unborn, offered in this world by a faithful, dispels the darknesses far away.