अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 26
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप्
सूक्तम् - अज सूक्त
पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वे भवन्ति। स्व॒र्गं लो॒कम॑श्नुते॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठपञ्च॑ । रु॒क्मा । ज्योति॑: । अ॒स्मै॒ । भ॒व॒न्ति॒ । वर्म॑ । वासां॑सि । त॒न्वे᳡ । भ॒व॒न्ति॒ । स्व॒:ऽगम् । लो॒कम् । अ॒श्नु॒ते॒ । य: । अ॒जम् । पञ्च॑ओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२६॥
स्वर रहित मन्त्र
पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति। स्वर्गं लोकमश्नुते योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठपञ्च । रुक्मा । ज्योति: । अस्मै । भवन्ति । वर्म । वासांसि । तन्वे । भवन्ति । स्व:ऽगम् । लोकम् । अश्नुते । य: । अजम् । पञ्चओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२६॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 26
Translation -
Five gold coins become illuminating light for him; the garments become an armour for the body; he wins the world of eternal bliss, whoso offers a pancaudana aja brightened with sacrificial gifts.