अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 2
तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः। न॑क्षद्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ॥
स्वर सहित पद पाठतम् । ऊं॒ इति॑ । न॒: । पूर्वे॑ । पि॒तर॑: । नव॑ऽग्वा: । स॒प्त । विप्रा॑स: । अ॒नि । वा॒जय॑न्त: ॥ न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽवाचम् । म॒तिऽभि॑: । शवि॑ष्ठम् ॥३६.२॥
स्वर रहित मन्त्र
तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः। नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥
स्वर रहित पद पाठतम् । ऊं इति । न: । पूर्वे । पितर: । नवऽग्वा: । सप्त । विप्रास: । अनि । वाजयन्त: ॥ नक्षत्ऽदाभम् । ततुरिम् । पर्वतेऽस्थाम् । अद्रोघऽवाचम् । मतिऽभि: । शविष्ठम् ॥३६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तम्) प्रसिद्धम् (उ) एव (पूर्व) प्राचीनाः (पितरः) पालकजनाः विद्वांसः (नवग्वाः) अ०१४।१।६। णु स्तुतौ-अप्+गम्लृ गतौ ड्वप्रत्ययः। स्तोतव्यचरित्राः (सप्त) सप्तसंख्याकाः (विप्रासः) विप्राणां व्यापनकर्मणामिन्द्रियाणाम्-निरु०१४।१३। व्यापनकर्माणीन्द्रियाणि यथा। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः। सप्त ऋषयः-अ०४।११।९। (अभि) सर्वतः (वाजयन्तः) ज्ञापयन्तः सन्ति (नक्षद्दाभम्) नक्षतिर्व्याप्तिकर्मा-निघ०२।१८-शतृ, दभ्नोतीति वधकर्मा-निघ०२।१९। नक्षत्+दम्भु दम्भे हनने-अण्, नलोपश्छान्दसः। व्याप्नुवतां दोषाणां नाशकम् (ततुरिम्) आदृगमहनजनः किकिनौ लिट् च। पा०३।२।१७१। तॄ प्लवनतरणयोः, अन्तर्गतण्यर्थः। किन्। बहुलं छन्दसि। पा०७।१।१०३। इत्युत्वम्। दुःखेभ्यस्तारयितारम् (पर्वतेष्ठाम्) पर्वते मेघे स्थितां विद्युतमिव शुद्धस्वरूपम्-इति दयानन्दभाष्ये (अद्रोघवाचम्) अ०६।१।२। द्रोहरहितवाग्युक्तम्। कल्याणवाणीम् (मतिभिः) बुद्धिभिः (शविष्ठम्) अतिशयेन बलवन्तम् ॥
इस भाष्य को एडिट करें