Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 1
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

    स्वर सहित पद पाठ

    य: । एक॑: । इत् । हव्य॑: । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गी॒ऽभि: । अ॒भि । अ॒र्चे॒ । आ॒भि: ॥ य: । पत्य॑ते । वृ॒ष॒भ: । वृष्ण्य॑ऽवान् । स॒त्य: । सत्वा॑ । पु॒रु॒ऽमा॒य: । सह॑स्वान् ॥३६.१॥


    स्वर रहित मन्त्र

    य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥

    स्वर रहित पद पाठ

    य: । एक: । इत् । हव्य: । चर्षणीनाम् । इन्द्रम् । तम् । गीऽभि: । अभि । अर्चे । आभि: ॥ य: । पत्यते । वृषभ: । वृष्ण्यऽवान् । सत्य: । सत्वा । पुरुऽमाय: । सहस्वान् ॥३६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 1

    टिप्पणीः - यह सूक्त ऋग्वेद में है-६।२२।१-११॥१−(यः) परमेश्वरः (एकः) अद्वितीयः (इत्) एव (हव्यः) हु आदाने-यत्। ग्राह्यः (चर्षणीनाम्) मनुष्याणां मध्ये (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (तम्) (गीर्भिः) वाग्भिः। स्तुतिभिः (अभि) सर्वतः (अर्चे) पूजयामि (आभिः) (यः) (पत्यते) यद्वृत्तान्नित्यम्। पा०८।१।६६। इति निघातप्रतिषेधः। ईष्टे। स्वामी भवति (वृषभः) श्रेष्ठः (वृष्ण्यवान्) अ०४।४।४। वृषन्-यत्, मतुप्। पराक्रमयुक्तः (सत्यः) यथार्थस्वभावः (सत्वा) अ०।२०।८। षद्लृ विशरणगत्यवसादनेषु-क्वनिप् दस्य तः। वीरः (पुरुमायः) माया प्रज्ञानाम-निघ०३।९। बहुप्रज्ञः (सहस्वान्) महाबलवान् ॥

    इस भाष्य को एडिट करें
    Top