Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 8
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा। तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॒ शोच॑य॒ क्षाम॒पश्च॑ ॥

    स्वर सहित पद पाठ

    आ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒य॒: । अ॒न्तरि॑क्षा ॥ तप॑ । वृ॒ष॒न् । वि॒श्वत॑: । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ । शो॒च॒य॒ । क्षाम् । अ॒प: । च॒ ॥३६.८॥


    स्वर रहित मन्त्र

    आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा। तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥

    स्वर रहित पद पाठ

    आ । जनाय । द्रुह्वणे । पार्थिवानि । दिव्यानि । दीपय: । अन्तरिक्षा ॥ तप । वृषन् । विश्वत: । शोचिषा । तान् । ब्रह्मऽद्विषे । शोचय । क्षाम् । अप: । च ॥३६.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 8

    टिप्पणीः - ८−(आ) समन्तात् (जनाय) पुरुषाय (द्रुह्वणे) अ०४।२९।१। द्रुह जिघांसायाम्-क्वनिप् द्रोगघ्ने (पार्थिवानि) पृथिव्यां भवानि (दिव्यानि) दिव्यगुणयुक्तानि (दीपयः) अदीपयः-लोडर्थे लङ्। प्रकाशय (अन्तरिक्षा) अर्शआद्यच्। अन्तरिक्षसम्बन्धीनि वस्तूनि (तप) दह (वृषन्) हे बलिष्ठ (विश्वतः) सर्वतः (शोचिषा) तेजसा (तान्) तर्द हिंसायाम्-डप्रत्ययः। चोरान् (ब्रह्मद्विषे) ईश्वरवेदयोर्द्वेष्ट्रे (शोचय) शोकं प्रापय (क्षाम्) पृथिवीम् (अपः) जलानि (च) ॥

    इस भाष्य को एडिट करें
    Top