अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 10
आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम्। यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥
स्वर सहित पद पाठआ । सम्ऽयत॑म् । इ॒न्द्र॒ । न॒: । स्व॒स्तिम् । श॒त्रु॒ऽतूर्या॑य । बृ॒ह॒तीम् । अमृ॑ध्राम् ॥ यया॑ । दासा॑नि । आर्या॑णि । वृ॒त्रा । कर॑: । व॒ज्रि॒न् । सु॒ऽतुका॑ । नाहु॑षाणि ॥३६.१०॥
स्वर रहित मन्त्र
आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम्। यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥
स्वर रहित पद पाठआ । सम्ऽयतम् । इन्द्र । न: । स्वस्तिम् । शत्रुऽतूर्याय । बृहतीम् । अमृध्राम् ॥ यया । दासानि । आर्याणि । वृत्रा । कर: । वज्रिन् । सुऽतुका । नाहुषाणि ॥३६.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(आ) समन्तात् (संयतम्) यम नियमने-क्विप् तुक् च। सम्यग् नियमिताम्। सुदृढाम् (इन्द्र) परमैश्वर्यवन् राजन् (नः) अस्मभ्यम् (स्वस्तिम्) सुसत्ताम्। सुखसामग्रीम् (शत्रुतूर्याय) तूरी गतित्वरणहिंसनयोः-क्यप्। शत्रूणां हिंसनाय (बृहतीम्) महतीम् (अमृध्राम्) स्फायितञ्चिवञ्चि०। उ०२।१३। मृधु आर्द्रीभावे हिंसायां च-रक्, टाप्। अहिंसिताम्। अक्षीणाम्। (यया) स्वस्त्या (दासानि) शूद्रकुलानि (आर्याणि) द्विजकुलानि (वृत्राणि) धनानि (करः) कुरु (वज्रिन्) शस्त्रधारिन् (सुतुका) सृवृभूशुषिमुषिभ्यः कक्। उ०३।४१। तु गतिवृद्धिहिंसासु-कक्। सुवर्धकानि (नाहुषाणि) मनुष्यसम्बन्धीनि ॥
इस भाष्य को एडिट करें