अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 4
तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र। कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥
स्वर सहित पद पाठतत् । न॒: । वि । वो॒च॒: । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तार॑: । आ॒न॒शु: । सु॒म्नम् । इ॒न्द्र॒ ॥ क: । ते॒ । भा॒ग: । किम् । वय॑:। दु॒ध्र॒ । खि॒द्व: । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्न: ॥३६.४॥
स्वर रहित मन्त्र
तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र। कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥
स्वर रहित पद पाठतत् । न: । वि । वोच: । यदि । ते । पुरा । चित् । जरितार: । आनशु: । सुम्नम् । इन्द्र ॥ क: । ते । भाग: । किम् । वय:। दुध्र । खिद्व: । पुरुऽहूत । पुरुवसो इति पुरुऽवसो । असुरऽघ्न: ॥३६.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(तत्) वक्ष्यमाणम् (नः) अस्मान् (वि) विशेषेण (वोचः) लोडर्थे लुङ्। ब्रूहि (यदि) (ते) तव (पुरा) पूर्वम् (चित्) अपि (जरितारः) गुणस्तोतारः (आनशुः) अशू व्याप्तौ-लिट्। प्रापुः (सुम्नम्) सुखम् (इन्द्र) हे परमैश्वर्यवन् पुरुष (कः) (ते) तव (भागः) अंशः (किम्) (वयः) जीवनम् (दुध्र) अ०२०।३४।१८। हे पूर्ण (खिद्वः) खिद दैन्ये, अन्तर्गतण्यर्थः-क्वसु। वस्वेकाजाद्घसाम्। पा०७।२।६७। इडभावः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्। वा० पा०६।१।८। इत्यनभ्यासः। मतुवसो रु सम्बुद्धौ छन्दसि। पा०८।३।१। इति रुत्वम्। आमन्त्रितनिघातः। हे शत्रूणां खेदयितः (पुरुहूत) हे बहुभिराहूत (पुरुवसो) हे बहुधन (असुरघ्नः) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा०३।२।। असुर+हन हिंसागत्योः-कप्रत्ययः। दुष्टानां हन्ता नाशकः ॥
इस भाष्य को एडिट करें