Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 6
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन। अच्यु॑ता चिद्वीडि॒ता स्वो॑जो रु॒जो वि दृ॒ढा धृ॑ष॒ता वि॑रप्शिन् ॥

    स्वर सहित पद पाठ

    अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒न॒:ऽजुवा॑ । स्व॒ऽत॒व॒: । पर्व॑तेन ॥ अच्यु॑ता । चि॒त् । वी॒लि॒ता । सु॒ऽओ॒ज॒: । रु॒ज: । वि । दृ॒ह्ला । धृ॒ष॒ता । वि॒र॒प्शि॒न् ॥३६.६॥


    स्वर रहित मन्त्र

    अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन। अच्युता चिद्वीडिता स्वोजो रुजो वि दृढा धृषता विरप्शिन् ॥

    स्वर रहित पद पाठ

    अया । ह । त्यम् । मायया । ववृधानम् । मन:ऽजुवा । स्वऽतव: । पर्वतेन ॥ अच्युता । चित् । वीलिता । सुऽओज: । रुज: । वि । दृह्ला । धृषता । विरप्शिन् ॥३६.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 6

    टिप्पणीः - ६−(अया) अनया (ह) एव (त्यम्) तम् (मायया) प्रज्ञया (वावृधानम्) वर्धमानम् (मनोजुवा) जु गतौ-क्विप्। मनोवद् वेगेन (स्वतवः) तवो-बलम्-निघ०२।९। हे स्वकीयबलयुक्त (पर्वतेन) शैलतुल्यदृढशस्त्रेण (अच्युता) च्युङ् गतौ-क्त। अचेष्टायमानानि (चित्) अपि (वीडिता) वीडयतिः संस्तम्भकर्मा-निरु०।१६। संस्तभितानि। स्थिराणि (स्वोजः) हे महापराक्रमिन् (रुजः) अरुजः। भग्नवानसि (वि) विशेषेण (दृढा) दृढानि वस्तूनि (धृषता) संश्चत्तृपद्वेहत्। उ०२।८। ञिधृषा प्रागल्भ्ये-अति प्रत्ययः। प्रागल्भ्येन (विरप्शिन्) अ०।२९।१३। हे महागुणिन् ॥

    इस भाष्य को एडिट करें
    Top