अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 11
स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो। न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्यद्रिक् ॥
स्वर सहित पद पाठस: । न: । नि॒युत्ऽभि॑: । पु॒रु॒ऽहू॒त॒: । वे॒ध॒: । वि॒श्वऽवा॑राभि: । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ । प्रऽयज्यो ॥ न । या: । अदे॑व: । वर॑ते । न । दे॒व: । आ । आ॒भि॒: । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥३६.११॥
स्वर रहित मन्त्र
स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो। न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥
स्वर रहित पद पाठस: । न: । नियुत्ऽभि: । पुरुऽहूत: । वेध: । विश्वऽवाराभि: । आ । गहि । प्रयज्यो इति । प्रऽयज्यो ॥ न । या: । अदेव: । वरते । न । देव: । आ । आभि: । याहि । तूयम् । आ । मद्र्यद्रिक् ॥३६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(सः) स त्वम् (नः) अस्मान् (नियुद्भिः) यु मिश्रणामिश्रणयोः-क्विप्। निश्चितसंयोगवियोगरीतिभिः (पुरुहूत) हे बहुभिराहूत (वेधः) मेधाविन् ! (विश्ववाराभिः) सर्वैः स्वीकरणीयाभिः (आगहि) प्राप्नुहि (प्रयज्यो) यजिमनिशुन्धि०। उ०३।२०। यज देवपूजासंगतिकरणदानेषु-युच्। हे प्रकर्षेण यज्ञकर्तः (न) निषेधे (याः) नियुतः (अदेवः) अविद्वान् (वरते) वृञ् वरणे, भ्वादिः। स्वीकरोति (न) यथा (देवः) विद्वान् (आ) समन्तात् (आभिः) नियुद्भिः (याहि) गच्छ (तूयम्) अघ्न्यादयश्च। उ०४।११२। तवतेर्वृद्धिकर्मणः-निरु०९।२-यक्, छान्दसो दीर्घः। शीघ्रम्-निघ०२।१ (मद्र्यद्रिक्) मद्र्यच्-अथर्व०२०।२३।१+दृशिर् प्रेक्षणे-क्विप्, पृषोदरादिरूपम्। मदभिमुखदृष्टिः सन् ॥
इस भाष्य को एडिट करें