अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 2
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॒ नृप॑ते॒ गभ॑स्तौ। शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
स्वर सहित पद पाठसु॒ऽस्थामा॑ । रथ॑: । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्र॑: । नृ॒ऽप॒ते॒ । गभ॑स्तौ ॥ शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒वाङ् । वर्धा॑म । ते॒ । प॒पुष॑: । वृष्ण्या॑नि ॥९४.२॥
स्वर रहित मन्त्र
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ। शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥
स्वर रहित पद पाठसुऽस्थामा । रथ: । सुऽयमा । हरी इति । ते । मिम्यक्ष । वज्र: । नृऽपते । गभस्तौ ॥ शीभम् । राजन् । सुऽपथा । आ । याहि । अवाङ् । वर्धाम । ते । पपुष: । वृष्ण्यानि ॥९४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(सुष्ठामा) दृढावस्थानयुक्ताः (रथः) (सुयमा) सुयमौ। सुशिक्षितौ (हरी) अश्वौ (ते) तव (मिम्यक्ष) म्यक्षतिर्गतिकर्मा-निघ० २।१४, लिट्। प्राप्तौ बभूव (वज्रः) आयुधम् (नृपते) नृणां पालक राजन् (गभस्तौ) बाहौ। हस्ते (शीभम्) अथ० ३।१३।२। शीघ्रम् (राजन्) (सुपथा) शोभनेन मार्गेण (आ याहि) आगच्छ (अर्वाङ्) अभिमुखः सन् (वर्धाम) वर्धयाम (ते) तव (पपुषः) पा रक्षणे-क्वसु। रक्षकस्य (वृष्ण्यानि) बलानि ॥
इस भाष्य को एडिट करें