अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 6
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्यानि दु॒ष्टरा॑। न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥
स्वर सहित पद पाठपृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒मा: । दे॒वऽहू॑तय: । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ॥ न । ये । शे॒कु: । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑य: ॥९४.६॥
स्वर रहित मन्त्र
पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा। न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥
स्वर रहित पद पाठपृथक् । प्र । आयन् । प्रथमा: । देवऽहूतय: । अकृण्वत । श्रवस्यानि । दुस्तरा ॥ न । ये । शेकु: । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपय: ॥९४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र निरुक्त ।२ में भी व्याख्यात है ॥ ६−(पृथक्) नाना प्रकारेण, केचिद् वीरत्वेन केचिद् विद्यावृद्ध्यादिना (प्र) प्रकर्षेण (आयन्) इण् गतौ-लङ्। अगच्छन् (प्रथमाः) मुख्याः (देवहूतयः) विदुषामाह्वातारः (अकृण्वत) अकुर्वत (श्रवस्यानि) श्रवणीयानि यशांसि (दुस्तरा) दुःखेन तरणीयानि (न) निषेधे (ये) पुरुषाः (शेकुः) शक्ता बभूवुः (यज्ञियाम्) यज्ञसम्बन्धिनीम् (नावम्) नौकाम् (आरुहम्) शकि णमुल्कमुलौ। पा० ३।४।१२। रोहतेः कमुल् तुमर्थे। आरोढुम् (ईर्मा) इषियुधीन्धि उ० १।१४। ईर् गतौ-मक्, विभक्तेर्डा। ईर्मे गन्तव्ये मार्गे (एव) अवधारणे (ते) पुरुषाः (नि अविशन्त) निवेशस्थितिस्थानं प्राप्नुवन् (केपयः) कु+पय गतौ-क्विप्, कुशब्दस्य के इत्यादेशः। केपयः कपूया भवन्ति कपूयमिति पुनातिकर्म कुत्सितं दुष्पूयं भवति-निरु० ।२४। कुत्सितगतयः। दुराचारिणः ॥
इस भाष्य को एडिट करें