Loading...
अथर्ववेद > काण्ड 20 > सूक्त 94

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 7
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-९४

    ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे। इ॒त्था ये प्रागुप॑रे सन्ति दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥

    स्वर सहित पद पाठ

    ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दु॒:ऽध्य॑: । अश्वा॑: । येषा॑म् । दु॒:ऽयुज॑: । आ॒ऽयु॒यु॒जे ॥ इ॒त्था । ये । प्राक् । उप॑रे । ‍सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥९४.७॥


    स्वर रहित मन्त्र

    एवैवापागपरे सन्तु दूढ्योश्वा येषां दुर्युज आयुयुज्रे। इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥

    स्वर रहित पद पाठ

    एव । एव । अपाक् । अपरे । सन्तु । दु:ऽध्य: । अश्वा: । येषाम् । दु:ऽयुज: । आऽयुयुजे ॥ इत्था । ये । प्राक् । उपरे । ‍सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥९४.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 7

    टिप्पणीः - ७−(एव) एवम् (एव) अवधारणे (अपाक्) अप+अञ्चु गतौ-क्विन्, यथा भवति तथा। अधोगतौ (अपरे) अन्ये वेदविरोधिनः (सन्तु) (दूढ्यः) दुर्धियः। दुर्बुद्धयः। (अश्वाः) तुरङ्गाः (येषाम्) (दुर्युजः) युज संयमने-क्विन्। दुर्योजनीयाः। अतिप्रबलाः (आयुयुज्रे) युज संयमने-कर्मणि लिट्। सम्यग् बद्धाः स्थितिं प्राप्ता बभूवुः (इत्था) अनेन प्रकारेण (ये) (प्राक्) प्रकृष्टगमने (उपरे) उप+रमतेर्ड प्रत्ययः। उपरतौ निवृत्तौ। विषयत्यागे (सन्ति) (दावने) ददातेः-वनिप्। दानाय (पुरूणि) बहूनि (यत्र) यस्मिन् दाने (वयुनानि) कर्माणि (भोजना) भोजनानि। पालनसाधनानि धनानि-निघ० २।–१ ॥

    इस भाष्य को एडिट करें
    Top