Loading...
अथर्ववेद > काण्ड 20 > सूक्त 94

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 4
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-९४

    ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्ज स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे। ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥

    स्वर सहित पद पाठ

    ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्ज: । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ ॥ ओज॑: । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । अस॑: । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒न: । वृ॒धे ॥९४.४॥


    स्वर रहित मन्त्र

    एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे। ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥

    स्वर रहित पद पाठ

    एव । पतिम् । द्रोणऽसाचम् । सऽचेतसम् । ऊर्ज: । स्कम्भम् । धरुणे । आ । वृषऽयसे ॥ ओज: । कृष्व । सम् । गृभाय । त्वे इति । अपि । अस: । यथा । केऽनिपानाम् । इन: । वृधे ॥९४.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 4

    टिप्पणीः - ४−(एव) एवम् (पतिम्) पालकम् (द्रोणसाचम्) कॄवृजॄसिद्रु०। उ० ३।१०। दॄ गतौ-नप्रत्ययः+षच समवाये सेचने च-ण्वि। ज्ञानेन सेक्तारम् (सचेतसम्) चेतसा युक्तम् (ऊर्जः) बलस्य (स्कम्भम्) स्तम्भं यथा (धरुणे) धारणे (आ) समन्तात् (वृषायसे) वृषन्-क्यङ्। वृषेव बलवानिवाचरसि (ओजः) बलम् (कृष्व) कुरुष्व (सम् गृभाय) सं गृहाण (त्वे) त्वयि (अपि) किञ्च (असः) भवेः (यथा) सादृश्ये (केनिपानाम्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। के+नि+पत्लृ पतने-डप्रत्ययः। के आत्मनि पतन्ति केनिपाः। आकेनिपो मेधाविनाम-निघ० ३।१। मेधाविनाम् (इनः) स्वामी (वृधे) वर्धनाय ॥

    इस भाष्य को एडिट करें
    Top