अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 5
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑। त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
स्वर सहित पद पाठगम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिन॑: ॥ त्वम् । ई॒शि॒षे॒ । स: । अ॒स्मिन् । आ । व॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥९४.५॥
स्वर रहित मन्त्र
गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः। त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥
स्वर रहित पद पाठगमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिन: ॥ त्वम् । ईशिषे । स: । अस्मिन् । आ । वत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥९४.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(आ गमन्) आगच्छन्तु (अस्मे) अस्मभ्यम् (वसूनि) धनानि (हि) यतः (शंसिषम्) शंस कथने-लुङ्। कथयामि (स्वाशिषम्) शोभनाशीर्वादयुक्तम् (भरम्) पोषणम् (आ) समन्तात् (याहि) प्राप्नुहि (सोमिनः) शान्तस्वभावयुक्तस्य (त्वम्) (ईशिषे) ईश्वरो भवसि (सः) स त्वम् (अस्मिन्) (आ) आगत्य (सत्सि) सीद (बर्हिषि) उत्तमासने (अनाधृष्या) ञिधृषा प्रागल्भ्ये-क्यप्। धर्षितुमशक्यानि। अजेयानि (तव) (पात्राणि) रक्षासाधनानि (धर्मणा) शास्त्रविहितव्यवहारेण ॥
इस भाष्य को एडिट करें