अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 8
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत्। स॑मीची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
स्वर सहित पद पाठगि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौ: । क्र॒न्द॒न् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ॥ स॒मी॒ची॒ने इति॑ स॒म् ई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्ण॑: । पी॒त्वा । मद॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥९४.८॥
स्वर रहित मन्त्र
गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्। समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥
स्वर रहित पद पाठगिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौ: । क्रन्दन् । अन्तरिक्षाणि । कोपयत् ॥ समीचीने इति सम् ईचीने । धिषणे इति । वि । स्कभायति । वृष्ण: । पीत्वा । मद । उक्थानि । शंसति ॥९४.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(गिरीन्) मेघान् (अज्रान्) अ० २०।६१।। शीघ्रगमनान् (रेजमानान्) कम्पयमानान् (अधारयत्) धारयति (द्यौः) प्रकाशमानः परमात्मा (क्रन्दत्) क्रदि आह्वाने रोदने च-शतृ। क्रन्दन्। आह्वयन् (अन्तरिक्षाणि) आकाशस्थलोका (कोपयत्) कुप द्युतौ क्रोधे च। दीपयति। प्रकाशयति (समीचीने) संगच्छमाने (धिषणे) अ० २०।३१।। द्यावापृथिव्यौ-निघ० ३।३०। सूर्यभूमिलोकौ (वि) विविधम् (स्कभायति) स्तभ्नाति स्तम्भयति (वृषाः) वृषु सेचने ऐश्वर्ये च-कनिन्। ऐश्वर्याणि (पीत्वा) गृहीत्वा (मदे) आनन्दे (उक्थानि) कथनीयानि वचनानि (शंसति) उपदिशति ॥
इस भाष्य को एडिट करें