अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - शाला, वास्तोष्पतिः
छन्दः - विराड्जगती
सूक्तम् - शालनिर्माण सूक्त
इ॒हैव ध्रु॒वा प्रति॑ तिष्ठ शा॒ले ऽश्वा॑वती॒ गोम॑ती सू॒नृता॑वती। ऊर्ज॑स्वती घृ॒तव॑ती॒ पय॑स्व॒त्युच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥
स्वर सहित पद पाठइ॒ह । ए॒व । ध्रु॒वा। प्रति॑ । ति॒ष्ठ॒ । शा॒ले॒ । अश्व॑ऽवती । गोऽम॑ती । सू॒नृता॑ऽवती । ऊर्ज॑स्वती ।घृ॒तऽव॑ती । पय॑स्वती । उत् । श्र॒य॒स्व॒ । म॒ह॒ते॒ । सौभ॑गाय ॥१२.२॥
स्वर रहित मन्त्र
इहैव ध्रुवा प्रति तिष्ठ शाले ऽश्वावती गोमती सूनृतावती। ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥
स्वर रहित पद पाठइह । एव । ध्रुवा। प्रति । तिष्ठ । शाले । अश्वऽवती । गोऽमती । सूनृताऽवती । ऊर्जस्वती ।घृतऽवती । पयस्वती । उत् । श्रयस्व । महते । सौभगाय ॥१२.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ध्रुवा)। दृढा। (प्रति तिष्ठ)। स्थिता भव। वर्तस्व। (शाले)। हे गृह। (अश्वावती)। मादुपधायाश्च०। पा० ८।२।११। इति मतुपो वत्वम्। मन्त्रे सोमाश्वेन्द्रिय०। पा० ६।३।१३१। इति मतौ दीर्घः। भूमनिन्दाप्रशंसासु०। इति सर्वत्र भूम्नि मतुप्। बहुभिरश्वैरुपेता। (गोमती)। बहुभिर्गोभिर्युक्ता। (सूनृतावती)। सु+नृत नर्तने-घञर्थे कः। यद्वा। सु+नृ+तन विस्तारे-ड। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। वा टाप्। सुष्ठु नृत्यतेऽनेन, यद्वा, सूनृषु शोभननरेषु तायते विस्तीर्यते। सूनुता, अन्ननाम-निघ० २।७। सूनृतम्, सत्यप्रियवाक्यम् इति कोषे। सत्यप्रियवाग्भिर्बालादीनां वाणीभिर्युक्ता। (ऊर्जस्वती)। ऊर्ज बलप्राणनयोः-असुन्। प्रभूतान्नवती। (घृतवती)। बहुघृतयुक्ता। (पयस्वती)। बहुदुग्धा। (उच्छ्रयस्व)। उद्गता, उत्कृष्टा भव। (महते)। प्रभूताय। (सौभगाय)। अ० १।१८।२। सुभग-अञ्। सुभगत्वाय। ऐश्वर्यवत्त्वाय ॥
इस भाष्य को एडिट करें