अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - शाला, वास्तोष्पतिः
छन्दः - शक्वरीगर्भा जगती
सूक्तम् - शालनिर्माण सूक्त
इ॒मां शालां॑ सवि॒ता वा॒युरिन्द्रो॒ बृह॒स्पति॒र्नि मि॑नोतु प्रजा॒नन्। उ॒क्षन्तू॒द्ना म॒रुतो॑ घृ॒तेन॒ भगो॑ नो॒ राजा॒ नि कृ॒षिं त॑नोतु ॥
स्वर सहित पद पाठइ॒माम् । शाला॑म् । स॒वि॒ता । वा॒यु: । इन्द्र॑: । बृह॒स्पति॑: । नि । मि॒नो॒तु॒ । प्र॒ऽजा॒नन् । उ॒क्षन्तु॑ । उ॒द्ना । म॒रुत॑: । घृ॒तेन॑ । भग॑: । न॒: । राजा॑ । नि । कृ॒षिम् । त॒नो॒तु॒ ॥१२.४॥
स्वर रहित मन्त्र
इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन्। उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥
स्वर रहित पद पाठइमाम् । शालाम् । सविता । वायु: । इन्द्र: । बृहस्पति: । नि । मिनोतु । प्रऽजानन् । उक्षन्तु । उद्ना । मरुत: । घृतेन । भग: । न: । राजा । नि । कृषिम् । तनोतु ॥१२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(इमाम्)। रच्यमानाम्। (शालाम्)। गृहम् (सविता)। सर्वस्य प्रेरकः पुरुषः सूर्यो वा। (वायुः)। वेगवान् पुरुषः पवनो वा। (इन्द्रः)। ऐश्वर्यवान् पुरुषो मेघो वा। (बृहस्पतिः)। अ० १।८।२। बृहतां कर्मणां रक्षकः पुरुषः। (निमिनोतु)। डुमिञ् प्रक्षेपणे। स्थापयतु। दृढां करोतु। (प्रजानन्)। शालानिर्माणप्रकारं प्रकर्षेण जानन्। (उक्षन्तु)। सिञ्चन्तु। (उद्ना)। पद्दन्नोमास्०। पा० ६।१।६३। इति उदकशब्दस्य उदन्। भसंज्ञायाम् अकारलोपः। उदकेन। (मरुतः)। अ० १।२०।१। शत्रूणां मारणशीलाः। शूराः। (घृतेन)। घृ सेके दीप्तौ-क्त। आज्येन। (भगः)। अ० १।२६।२। भजनीयः। भाग्यवान्। (नः)। अस्मभ्यम्। (राजा)। प्रतापी। प्रधानः। (कृषिम्)। इगुपधात् कित्। उ० ४।१२०। इति कृष विलेखने-इन्। स च कित्। भूमिकर्षणविद्याम्। (नि)। नितराम्। (तनोतु)। विस्तारयतु ॥
इस भाष्य को एडिट करें