अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - शाला, वास्तोष्पतिः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शालनिर्माण सूक्त
पू॒र्णं ना॑रि॒ प्र भ॑र कु॒म्भमे॒तं घृ॒तस्य॒ धारा॑म॒मृते॑न॒ संभृ॑ताम्। इ॒मां पा॒तॄन॒मृते॑ना सम॑ङ्ग्धीष्टापू॒र्तम॒भि र॑क्षात्येनाम् ॥
स्वर सहित पद पाठपू॒र्णम् । ना॒रि॒ । प्र । भ॒र॒ । कु॒म्भम् । ए॒तम् । घृ॒तस्य॑ । धारा॑म् । अ॒मृते॑न । सम्ऽभृ॑ताम् । इ॒माम् । पा॒तृृन् । अ॒मृते॑न । सम् । अ॒ङ्ग्धि॒ । इ॒ष्टा॒पू॒र्तम् । अ॒भि । र॒क्षा॒ति॒ । ए॒ना॒म् ॥१२.८॥
स्वर रहित मन्त्र
पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम्। इमां पातॄनमृतेना समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥
स्वर रहित पद पाठपूर्णम् । नारि । प्र । भर । कुम्भम् । एतम् । घृतस्य । धाराम् । अमृतेन । सम्ऽभृताम् । इमाम् । पातृृन् । अमृतेन । सम् । अङ्ग्धि । इष्टापूर्तम् । अभि । रक्षाति । एनाम् ॥१२.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(पूर्णम्)। पूरितम्। (नारि)। अ० १।११।१। हे नरस्य धर्म्ये हितकारिणि। (प्रभर)। हस्य भः। आहर। द्विकर्मकत्वात् (कुम्भम्, धाराम्)। इत्येतयोः कर्मता। (कुम्भम्)। म० ७। अपादाने द्वितीया। घटात्-इत्यर्थः। (एतम्)। (घृतस्य)। आज्यस्य। (धाराम्)। धृ-णिच्-अङ्, टाप्। सन्तत्या पतनम्। (अमृतेन)। मरणाद्रक्षकेण स्वास्थ्यवर्धकेन पदार्थसमूहेन। (संभृताम्)। संपादिताम्। (इमाम्)। (पातॄन्)। पा पाने, पा रक्षणे वा-तृच्। पानकर्तॄन्। रक्षकान्। (सम्)। सम्यक्। (अङ्ग्धि)। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-लोट् म्रक्ष, संयोजय। (इष्टापूर्तम्)। अ० २।१२।४। यज्ञवेदाध्ययनान्नदानादि पुण्यकर्म। (अभि)। सर्वतः। (रक्षाति)। लेट्। रक्षेत् ॥
इस भाष्य को एडिट करें