Loading...
अथर्ववेद > काण्ड 3 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - शाला, वास्तोष्पतिः छन्दः - त्रिष्टुप् सूक्तम् - शालनिर्माण सूक्त

    मान॑स्य पत्नि शर॒णा स्यो॒ना दे॒वी दे॒वेभि॒र्निमि॑ता॒स्यग्रे॑। तृणं॒ वसा॑ना सु॒मना॑ अस॒स्त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥

    स्वर सहित पद पाठ

    मान॑स्य । प॒त्नि॒ । श॒र॒णा । स्यो॒ना । दे॒वी । दे॒वेभि॑: । निऽमि॑ता । अ॒सि॒ । अग्रे॑ । तृण॑म् । वसा॑ना । सु॒ऽमना॑: । अ॒स॒: । त्वम् । अथ॑ । अ॒स्मभ्य॑म् । स॒हऽवी॑रम् । र॒यिम् । दा॒: ॥१२.५॥


    स्वर रहित मन्त्र

    मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे। तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥

    स्वर रहित पद पाठ

    मानस्य । पत्नि । शरणा । स्योना । देवी । देवेभि: । निऽमिता । असि । अग्रे । तृणम् । वसाना । सुऽमना: । अस: । त्वम् । अथ । अस्मभ्यम् । सहऽवीरम् । रयिम् । दा: ॥१२.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 5

    टिप्पणीः - ५−(मानस्य)। मान पूजायाम्-घञ्। चित्तसमुन्नतेः। सत्कारस्य। (पत्नि)। अ० ३।१०।२। हे पालयित्रि। (शरणा)। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति शरण-अच् मत्वर्थे। टाप्। शरणवती। आश्रयवती। (स्योना)। स्योनं सुखं व्याख्यातम्। अ० २।१०।७। पूर्ववत् अच् टाप् च। सुखवती। (देवी)। द्योतमाना। (देवेभिः)। देवैः। विश्वकर्मभिः। निर्माणविद्याकुशलैः। (निमिता)। डुमिञ् क्षेपे-क्त। दृढीकृता। (असि)। वर्तसे। (अग्रे)। अस्माकमभिमुखम्। (तृणम्)। अ० २।३०।१। तृह हिंसायाम्-क्न, हलोपः। गवादि-भक्ष्यम्। (वसाना)। वस आच्छादने-शानच्। आच्छादयन्ती। (सुमनाः)। शोभनमनस्का। (असः)। अस्तेर्लटि अडागमः। भव। (अथ दाः)। इति गतम्। अ० २।६।५। (दाः)। दद्याः ॥

    इस भाष्य को एडिट करें
    Top