अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - शाला, वास्तोष्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - शालनिर्माण सूक्त
इ॒हैव ध्रु॒वां नि मि॑नोमि॒ शालां॒ क्षेमे॑ तिष्ठाति घृ॒तमु॒क्षमा॑णा। तां त्वा॑ शाले॒ सर्व॑वीराः सु॒वीरा॒ अरि॑ष्टवीरा॒ उप॒ सं च॑रेम ॥
स्वर सहित पद पाठइ॒ह । ए॒व । ध्रु॒वाम् । नि । मि॒नो॒मि॒ । शाला॑म् । क्षेमे॑ । ति॒ष्ठा॒ति॒ । घृ॒तम् । उ॒क्षमा॑णा । ताम् । त्वा॒ । शा॒ले॒ । सर्व॑वीरा: । सु॒ऽवीरा॑: । अरि॑ष्टऽवीरा: । उप॑ । सम् । च॒रे॒म॒ ॥१२.१॥
स्वर रहित मन्त्र
इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा। तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥
स्वर रहित पद पाठइह । एव । ध्रुवाम् । नि । मिनोमि । शालाम् । क्षेमे । तिष्ठाति । घृतम् । उक्षमाणा । ताम् । त्वा । शाले । सर्ववीरा: । सुऽवीरा: । अरिष्टऽवीरा: । उप । सम् । चरेम ॥१२.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(इह)। अस्मिन् विचारिते स्थाने। (एव)। अवधारणे। (ध्रुवाम्)। ध्रु स्थैर्ये गतौ च-क। स्थिराम्। निश्चिताम्। (नि मिनोमि)। डुमिञ् प्रक्षेपणे। नितरां प्रक्षिपामि स्थापयामि। (शालाम्)। तमिविशिविडि०। उ० १।११८। इति शो निशाने अल्पीकरणे-कालन्। अथवा, शाल कथने-अच्। टाप्। गृहम्। (क्षेमे)। लब्धवस्तुनो रक्षणे। कुशले। (तिष्ठाति)। लेटि आडागमः। तिष्ठेत्। (घृतम्)। आज्यम्। दीप्तिम्। (उक्षमाणा)। सिञ्चन्ती। प्रयच्छन्ती। (ताम्)। तादृशीम्। (त्वा)। (शाले)। (सर्ववीराः)। अनेकशूरोपेताः। (सुवीराः)। शुभगुणवीरैर्युक्ताः। (अरिष्टवीराः)। रिष हिंसायाम्-क्त। अहिंसितवीराः। स्वस्थशूरयुक्ताः। (उप)। उपेत्य। (संचरेम)। व्यवहरेम ॥
इस भाष्य को एडिट करें