अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 4
सूक्त - अथर्वा
देवता - विक्रयः
छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टिः
सूक्तम् - वाणिज्य
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥
स्वर सहित पद पाठइ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒ष॒: । न॒: । यम् । अध्वा॑नम् । अगा॑म । दू॒रम् । शु॒नम् । न॒: । अ॒स्तु॒ । प्र॒ऽप॒ण: । वि॒ऽक्रय । च॒ । प्र॒ति॒ऽप॒ण: । फ॒लिन॑म् । मा॒ । कृ॒णो॒तु॒ । इ॒दम् । ह॒व्यम् । स॒म्ऽवि॒दा॒नौ । जु॒षे॒था॒म् । शु॒नम् । न॒: । अ॒स्तु॒ । च॒रि॒तम् । उत्थि॑तम् । च॒ ॥१५.४॥
स्वर रहित मन्त्र
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्। शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु। इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥
स्वर रहित पद पाठइमाम् । अग्ने । शरणिम् । मीमृष: । न: । यम् । अध्वानम् । अगाम । दूरम् । शुनम् । न: । अस्तु । प्रऽपण: । विऽक्रय । च । प्रतिऽपण: । फलिनम् । मा । कृणोतु । इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । न: । अस्तु । चरितम् । उत्थितम् । च ॥१५.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अग्ने)। म० ३। (शरणिम्)। अर्त्तिसृधृ०। उ० २।१०२। इति शॄ हिंसायाम्-अनि। हिंसाम्। प्रमादरूपां पीडाम्। (मीमृषः)। मृष तितिक्षायाम् लुङ्, अडभावः। स्वार्थिको णिच्। त्वं क्षमितवानसि। (नः)। अस्माकम्। (अध्वानम्)। अदेर्ध च। उ० ४।११६। इति अद भक्षणे। यद्वा, अदि बन्धने क्वनिप्, दस्य घः। मार्गम्। (अगाम)। इण् गतौ-लुङ्। वयं गतवन्तः। (दूरम्)। अ० ३।३।२। विप्रकृष्टदेशम्। (शुनम्)। अव्ययम्। गेहे कः। पा० ३।१।१४४। इति शुन गतौ-क। सुखनाम-निघ० ३।६। सुखप्रदः। (प्रपणः)। षण व्यवहारे-अच्। क्रयः। व्यापारः। (विक्रयः) एरच्। पा० ३।३।५६। इति वि+क्रीञ् द्रव्यविनिमये-अच्। विक्रयणम्। विपणनम्। (प्रतिषणः)। षण-अच्। सलाभमूल्यस्वीकारेण परेभ्यः प्रदानम्। (फलिनम्)। बहुलाभयुक्तम्। (मा)। माम्। (कृणोतु)। करोतु। (हव्यम्)। हविः। (संविदानौ)। अ० २।२८।२। संगच्छमानौ। ऐकमत्यं प्राप्तौ। अहं च त्वं च। (जुषेथाम्)। युवां सेवेथाम्। (चरितम्)। चर-क्त। अनुष्ठानम्। विक्रयादि-कर्म। (उत्थितम्)। उद्+ष्ठा-क्त। सलाभं धनम् ॥
इस भाष्य को एडिट करें