अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 7
उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः। स नः॑ प्र॒जास्वा॒त्मसु॒ गोषु॑ प्रा॒णेषु॑ जागृहि ॥
स्वर सहित पद पाठउप॑ । त्वा॒ । नम॑सा । व॒यम् । होत॑: । वै॒श्वा॒न॒र । स्तु॒म: । स: । न॒: । प्र॒ऽजासु॑ । आ॒त्मऽसु॑ । गोषु॑ । प्रा॒णेषु॑ । जा॒गृ॒हि॒ ॥१५.७॥
स्वर रहित मन्त्र
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः। स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥
स्वर रहित पद पाठउप । त्वा । नमसा । वयम् । होत: । वैश्वानर । स्तुम: । स: । न: । प्रऽजासु । आत्मऽसु । गोषु । प्राणेषु । जागृहि ॥१५.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(उप)। पूजायाम्। (त्वा)। त्वाम्। इन्द्रम्। (नमसा)। नमस्कारेण। (वयम्)। व्यापारिणः। (होतः)। हु दाने-तृच्। हे दातः। (वैश्वानर)। अ० १।१०।४। हे सर्वनरहित ! हे सर्वनायक ! (स्तुमः)। प्रशंसामः। (सः)। सत्यम्। (नः। अस्माकम्। (प्रजासु)। पुत्रपौत्रभृत्यादिषु। (आत्मसु)। अ० १।१८।३। जीवेषु। शरीरेषु। (गोषु)। धेनुषु। (प्राणेषु)। जीवनेषु। (जागृहि)। बुध्यस्व। सावधानो वर्तस्व ॥
इस भाष्य को एडिट करें