अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - अनड्वान सूक्त
येन॑ दे॒वाः स्व॑रारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ॥
स्वर सहित पद पाठयेन॑ । दे॒वा: । स्व᳡: । आ॒ऽरु॒रु॒हु: । हि॒त्वा । शरी॑रम् । अ॒मृत॑स्य । नाभि॑म् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । घ॒र्मस्य॑ । व्र॒तेन॑ । तप॑सा । य॒श॒स्यव॑: ॥११.६॥
स्वर रहित मन्त्र
येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम्। तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥
स्वर रहित पद पाठयेन । देवा: । स्व: । आऽरुरुहु: । हित्वा । शरीरम् । अमृतस्य । नाभिम् । तेन । गेष्म । सुऽकृतस्य । लोकम् । घर्मस्य । व्रतेन । तपसा । यशस्यव: ॥११.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(येन) अनडुहा। परमेश्वरेण (देवाः) व्यवहारिणः पुरुषाः (स्वः) अ० २।५।२। स्वर्गम्। देवालयम् (अरुरुहुः) आरूढवन्तः (हित्वा) ओहाक् त्यागे−क्त्वा। त्यक्त्वा। (शरीरम्) अ० २।१२।८। शीर्यमाणं देहम्। देहाभिमानमित्यर्थः (अमृतस्य) अमरणस्य। मोक्षसुखस्य (नाभिम्) अ० १।१३।३। मध्यस्थानम्। केन्द्रम् (तेन) अनडुहा (गेष्म) गेषृ अन्विच्छायाम्-लोटि छान्दसं रूपम्। गेषामहै। अन्विच्छाम। अन्वेषणेन प्राप्नवाम (सुकृतस्य) पुण्यस्य (लोकम्) गृहम् (घर्मस्य) म० ३। प्रकाशमानस्य। आदित्यस्य (व्रतेन) वरणीयेन कर्मणा (तपसा) ऐश्वर्येण (यशस्यवः) सुप आत्मनः क्यच्। पा० ३।१।८। इति यशस्-क्यच्। क्याच्छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। यशः कीर्तिमात्मन इच्छन्तः ॥
इस भाष्य को एडिट करें