अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 10
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - अनुष्टुप्
सूक्तम् - अनड्वान सूक्त
प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्। श्रमे॑णान॒ड्वान्की॒लालं॑ की॒नाश॑श्चा॒भि ग॑छतः ॥
स्वर सहित पद पाठप॒त्ऽभि: । से॒दिम् । अ॒व॒ऽक्राम॑न् । इरा॑म् । जङ्घा॑भि: । उ॒त्ऽखि॒दन् । श्रमे॑ण । अ॒न॒ड्वान् । की॒लाल॑म् । की॒नाश॑: । च॒ । अ॒भि । ग॒च्छ॒त॒: ॥११.१०॥
स्वर रहित मन्त्र
पद्भिः सेदिमवक्रामन्निरां जङ्घाभिरुत्खिदन्। श्रमेणानड्वान्कीलालं कीनाशश्चाभि गछतः ॥
स्वर रहित पद पाठपत्ऽभि: । सेदिम् । अवऽक्रामन् । इराम् । जङ्घाभि: । उत्ऽखिदन् । श्रमेण । अनड्वान् । कीलालम् । कीनाश: । च । अभि । गच्छत: ॥११.१०॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(पद्भिः) पद स्थैर्ये गतौ च-क्विप्। स्वस्थितिभिः (सेदिम्) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। इति षद्लृ विशरणगत्यवसादनेषु−कि। अवसादनम्। दरिद्रताम् (अवक्रामन्) अवाङ्मुखीकुर्वन् (इराम्) ऋज्रेन्द्र०। उ० २।२८। इति इण् गतौ-रन्, गुणाभावः। अन्नम्-निघ० २।७। (जङ्घाभिः) अच् तस्य जङ्घ च। उ० ५।३१। इति जनी प्रादुर्भावे-अच्, जङ्घ इत्यादेशः. प्रादुर्भावैः। यद्वा। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति हन हिंसागत्योः-यङ्लुगन्तात्-ड प्रत्ययः। अतिवेग-गतिभिः। अत्यन्तव्याप्तिभिः (उत्खिदन्) खिद दैन्ये, परिघाते। उत्पूर्वात् खिद उत्पादने-शतृ। उत्पादयन् वर्तते (श्रमेण) श्रम तपसि, आयासे, खेदे च-घञ् आयासेन। प्रयत्नेन (अनड्वान्) म० १। जीवनप्रापकः (कीलालम्) कील बन्धे-घञ्+अल वारणपर्याप्तिभूषासु-अण्। बन्धनिवारणम्। अमृतम्। जीवनसाधनम् (कीनाशः) अ० ३।१७।५। कुत्सितं नाशयतीति। कोः कीति आदेशः। निन्दितकर्मनाशकः परमेश्वरः (अभि गच्छतः) अभितो गच्छतः पुरुषस्य ॥
इस भाष्य को एडिट करें