Loading...
अथर्ववेद > काण्ड 4 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 9
    सूक्त - भृग्वङ्गिराः देवता - इन्द्रः, अनड्वान् छन्दः - अनुष्टुप् सूक्तम् - अनड्वान सूक्त

    यो वेदा॑न॒डुहो॒ दोहा॑न्स॒प्तानु॑पदस्वतः। प्र॒जां च॑ लो॒कं चा॑प्नोति॒ तथा॑ सप्तऋ॒षयो॑ विदुः ॥

    स्वर सहित पद पाठ

    य: । वेद॑ । अ॒न॒डुह॑: । दोहा॑न् । स॒प्त । अनु॑पऽदस्वत: । प्र॒ऽजाम् । च॒ । लो॒कम् । च॒ । आ॒प्नो॒ति॒ । तथा॑ । स॒प्त॒ऽऋ॒षय॑: ॥११.९॥


    स्वर रहित मन्त्र

    यो वेदानडुहो दोहान्सप्तानुपदस्वतः। प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥

    स्वर रहित पद पाठ

    य: । वेद । अनडुह: । दोहान् । सप्त । अनुपऽदस्वत: । प्रऽजाम् । च । लोकम् । च । आप्नोति । तथा । सप्तऽऋषय: ॥११.९॥

    अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 9

    टिप्पणीः - ९−(यः) यः पुरुषः (वेद) वेत्ति (अनडुहः) म० १। प्राणप्रापकस्य (दोहान्) म० ४। पूर्तिप्रवाहान् (सप्त) सप्यशूभ्यां तुट् च। उ० १।१५७। इति षप समवाये-कनिन्। अथवा क्त प्रत्ययः। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। समवेतान्। नित्यसम्बद्धान्। अथवा, सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमिति वा सप्त सृप्ता सङ्ख्या सप्तादित्यरश्मयः। निरु० ४।२६। इति यास्कवचनात् सूर्यरश्मिवत् परस्परसंयुक्तान् (अनुपदस्वतः) दसु उपक्षये-असुन्, मतुप्। अक्षयान् (प्रजाम्) पुत्रपौत्रभृत्यादिकम् (च) समुच्चये। अवधारणे (लोकम्) संसारम्। संसारराज्यम् (आप्नोति) लभते (तथा) तेनैव प्रकारेण (सप्तऋषयः) सप्त समवेताः। इगुपधात् कित्। उ० ४।१२०। इति ऋष गतौ दर्शने च-इन्। ऋत्यकः। पा० ६।१।१२८। इति प्रकृतिभावः। सप्त ऋषयः प्रतिहिताः शरीरे। य० ३४।५५। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी। निरु० १२।३७। कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। अ० १०।२।६। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः। अथवा। शीर्षण्यानि सप्तच्छिद्राणि (विदुः) जानन्ति। प्रत्यक्षीकुर्वन्ति ॥

    इस भाष्य को एडिट करें
    Top