अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 8
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - अनुष्टुप्
सूक्तम् - अनड्वान सूक्त
मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः। ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न्प्र॒त्यङ्स॒माहि॑तः ॥
स्वर सहित पद पाठमध्य॑म् । ए॒तत् । अ॒न॒डुह॑: । यत्र॑ । ए॒ष: । वह॑: । आऽहि॑त: । ए॒ताव॑त् । अ॒स्य॒ । प्रा॒चीन॑म् । यावा॑न् । प्र॒त्यङ् । स॒म्ऽआहि॑त: ॥११.८॥
स्वर रहित मन्त्र
मध्यमेतदनडुहो यत्रैष वह आहितः। एतावदस्य प्राचीनं यावान्प्रत्यङ्समाहितः ॥
स्वर रहित पद पाठमध्यम् । एतत् । अनडुह: । यत्र । एष: । वह: । आऽहित: । एतावत् । अस्य । प्राचीनम् । यावान् । प्रत्यङ् । सम्ऽआहित: ॥११.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(मध्यम्) अ० १।३३।२। द्वयोरन्तरालम्। गोलस्य। मध्यस्थानम् (एतत्) दृश्यमानं सर्वम् (अनडुहः) म० १। जीवनप्रापकस्य परमेश्वरस्य (यत्र) यस्मिन् स्थाने (एषः) अयम् (वहः) वहनीयः पदार्थो भारो वा (आहितः) धा-क्त। स्थापितः (एतावत्) एतत्परिमाणयुक्तम् (अस्य) अतति सर्वं व्याप्नोतीति अः। अत सातत्यगमने-ड। यद्वा अवति रक्षतीति अव रक्षणे ड। अः विष्णुः। सर्वव्यापकस्य सर्वरक्षकस्य वा परमेश्वरस्य (प्राचीनम्) विभाषाञ्चतेरदिक्स्त्रियाम्। पा० ५।४।८। इति स्वार्थे खः। खस्य ईनादेशः। प्राक् पूर्वः कालो देशो वा (यावान्) यत्परिमाणवान् (प्रत्यङ्)। प्रति+अञ्चु-क्विन्। पश्चिमकालः। पश्चिमदेशः (समाहितः) निष्पन्नः ॥
इस भाष्य को एडिट करें