अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - अनड्वान सूक्त
इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः। सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥
स्वर सहित पद पाठइन्द्र॑: । जा॒त: । म॒नु॒ष्ये᳡षु । अ॒न्त: । घ॒र्म: । त॒प्त: । च॒र॒ति॒ । शोशु॑चान: । सु॒ऽप्र॒जा: । सन् । स: । उ॒त्ऽआ॒रे । न । स॒र्ष॒त् । य: । न । अ॒श्नी॒यात् । अ॒न॒डुह॑: । वि॒ऽजा॒नन् ॥११.३॥
स्वर रहित मन्त्र
इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः। सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥
स्वर रहित पद पाठइन्द्र: । जात: । मनुष्येषु । अन्त: । घर्म: । तप्त: । चरति । शोशुचान: । सुऽप्रजा: । सन् । स: । उत्ऽआरे । न । सर्षत् । य: । न । अश्नीयात् । अनडुह: । विऽजानन् ॥११.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(इन्द्रः) परमैश्वर्यवान् (जातः) प्रादुर्भूतः सन् (मनुष्येषु) अ० ३।४।६। मननशीलेषु (अन्तः) मध्ये (घर्मः) अ० ४।१।२। दीप्यमानः। घृणिः सूर्य इव। घर्मः, अहर्नाम-निघ० १।९। (तप्तः) तापयुक्तः (चरति) संचरति। वर्तते (शोशुचानः) शुच दीप्तौ यङन्तात् शानच्। देदीप्यमानः (सुप्रजाः) उत्तमान् पुत्रपौत्रभृत्यादीन् (सन्) अस भुवि-शतृ। विद्यमानः पुरुषः (सः) (उदारे) उत्+आङ्+रा दानादानयोः-क। यद्वा। उत्+ऋ गतिप्रापणयोः। घञ्। महति पदे। उदारो दातृमहतोः, इत्यमरः-२३।१९२। (न) नहि (सर्षत्) सृ गतौ लेटि अडागमः, सिप् च। प्राप्नुयात् (यः) पुरुषः (न) नहि (अश्नीयात्) अश भोजने-विधिलिङ्। भक्षयेत् (अनडुहः) म० १। प्राणस्य जीवनस्य च वाहकस्य परमेश्वरस्य (विजानन्) विशेषेण ज्ञानं प्राप्नुवन् ॥
इस भाष्य को एडिट करें