Loading...
अथर्ववेद > काण्ड 4 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 5
    सूक्त - भृग्वङ्गिराः देवता - इन्द्रः, अनड्वान् छन्दः - त्रिष्टुप् सूक्तम् - अनड्वान सूक्त

    यस्य॑ नेशे य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दातेशे॒ न प्र॑तिग्रही॒ता। यो वि॑श्व॒जिद्वि॑श्व॒भृद्वि॒श्वक॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात् ॥

    स्वर सहित पद पाठ

    यस्य॑ । न । ईशे॑ । य॒ज्ञऽप॑ति: । न । य॒ज्ञ: । न । अ॒स्य॒ । दा॒ता । ईशे॑ । न । प्र॒ति॒ऽग्र॒ही॒ता । य: । वि॒श्व॒ऽजित् । वि॒श्व॒ऽभृत् । वि॒श्वऽक॑र्मा । घ॒र्मम् । न॒: । ब्रू॒त॒ । य॒त॒म: । चतु॑:ऽपात् ॥११.५॥


    स्वर रहित मन्त्र

    यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता। यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात् ॥

    स्वर रहित पद पाठ

    यस्य । न । ईशे । यज्ञऽपति: । न । यज्ञ: । न । अस्य । दाता । ईशे । न । प्रतिऽग्रहीता । य: । विश्वऽजित् । विश्वऽभृत् । विश्वऽकर्मा । घर्मम् । न: । ब्रूत । यतम: । चतु:ऽपात् ॥११.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 5

    टिप्पणीः - ५−(यस्य) घर्मस्य। अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति कर्मणि षष्ठी (न) नहि (ईशे) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। ईष्टे। शासिता भवति (यज्ञपतिः) यजमानः सङ्गतिकर्ता (यज्ञः) संगतिक्रिया (दाता) दानशीलः (प्रतिग्रहीता) दानस्य स्वीकर्ता (यः) अनड्वान्। घर्मः (विश्वजित्) विश्वस्य जेता (विश्वभृत्) सर्वस्य भर्ता पोषयिता च (विश्वकर्मा) विश्वं सर्वं कर्म कर्तव्यं व्यापारो यस्य। सर्वव्यापारकर्ता (घर्मम्) म० ३। तं दीप्यमानम्। आदित्यरूपम्। अनड्वाहं परमात्मानम् (नः) अस्मभ्यम् (ब्रूत) कथयत। उपदिशत (यतमः) वा बहूनां जातिपरिप्रश्ने डतमच्। पा० ५।३।९३। इति यत्-डतमच्। बहूनां मध्ये निर्द्धारित एकः। एषां मध्ये यः (चतुष्पात्) पद स्थैर्ये, गतौ च-घञ्। इति पादः। संख्यासुपूर्वस्य। पा० ५।४।१४०। इति बहुव्रीहेः पादान्तस्य लोपः। चतसृषु दिक्षु पादः स्थितिर्गतिर्वा यस्य सः ॥

    इस भाष्य को एडिट करें
    Top