अथर्ववेद - काण्ड 4/ सूक्त 11/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - इन्द्रः, अनड्वान्
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - अनड्वान सूक्त
अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः। भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥
स्वर सहित पद पाठअ॒न॒ड्वान् । इन्द्र॑: । स: । प॒शुऽभ्य॑: । वि । च॒ष्टे॒ । त्र॒यान् । श॒क्र: । वि । मि॒मी॒ते॒ । अध्व॑न: । भू॒तम् । भ॒वि॒ष्यत् । भुव॑ना । दुहा॑न: । सर्वा॑ । दे॒वाना॑म् । च॒र॒ति॒ । व्र॒तानि॑ ॥११.२॥
स्वर रहित मन्त्र
अनड्वानिन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः। भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥
स्वर रहित पद पाठअनड्वान् । इन्द्र: । स: । पशुऽभ्य: । वि । चष्टे । त्रयान् । शक्र: । वि । मिमीते । अध्वन: । भूतम् । भविष्यत् । भुवना । दुहान: । सर्वा । देवानाम् । चरति । व्रतानि ॥११.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 11; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अनड्वान्) म० १। अनसः प्राणस्य जीवनस्य च वाहकः (इन्द्रः) परमैश्वर्यवान् (सः) प्रसिद्धः (पशुभ्यः) अ० २।२६।१। व्यक्तवाग्भ्योऽव्यक्तवाग्भ्यो जीवेभ्यः-निरु० ११।२९। तेषां हिताय (वि) विविधम् (चष्टे) चक्षिङ् व्यक्तायां वाचि दर्शने च। चष्टे पश्यतिकर्मा-निघ० ३।११। पश्यति कथयति वा (त्रयान्) संख्याया अवयवे तयप्। पा० ५।२।४२। इति तयप्। द्वित्रिभ्यां तयस्यायज्वा। पा० ५।२।४३। इति तयस्य अयच्। त्र्यवयवान् (शक्रः) शक्तः समर्थः (वि) विशेषेण (मिमीते) माङ् माने शब्दे च। भृञामित्। पा० ७।४।७६। इत्यभ्यासस्य इत्वम्। परिमितान् करोति (अध्वनः) अ० १।४।१। मार्गान् (भूतम्) गतम् (भविष्यत्) अनागतम् (भुवना) भुवनानि। लोकान् वर्तमानानि वस्तूनि वा (दुहानः) दुह प्रपूरणे-शानच्। प्रपूरयन् (सर्वा) सर्वाणि (देवानाम्) इन्द्रियाण्यत्र देवा उच्यन्ते-निरु० १३।११। इन्द्रियाणाम् (व्रतानि) कर्माणि (चरति) करोति ॥
इस भाष्य को एडिट करें