Loading...
अथर्ववेद > काण्ड 4 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - पृथिवी छन्दः - त्रिपदा महाबृहती सूक्तम् - सन्नति सूक्त

    पृ॑थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः। सा मे॒ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥

    स्वर सहित पद पाठ

    पृ॒थि॒वी । धे॒नु: । तस्या॑: । अ॒ग्नि: । व॒त्स: । सा । मे॒ । अ॒ग्निना॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.२॥


    स्वर रहित मन्त्र

    पृथिवी धेनुस्तस्या अग्निर्वत्सः। सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥

    स्वर रहित पद पाठ

    पृथिवी । धेनु: । तस्या: । अग्नि: । वत्स: । सा । मे । अग्निना । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 2

    टिप्पणीः - २−(पृथिवी) भूमिः (धेनुः) अ० ३।१०।१। दोग्ध्री गौर्यथा (तस्याः) धेन्वाः (अग्निः) भौतिकाग्निः (वत्सः) अ० ३।१२।३। गोशिशुर्यथा (सा) धेनुः (मे) मह्यम् (अग्निना) (वत्सेन) शिशुना च (इषम्) अ० ३।१०।७। अन्नम् (ऊर्जम्) अ० ३।१०।७। पराक्रमम् (कामम्) सुमनोरथम् (दुहाम्) तलोपः। दुग्धाम्। प्रपूरयतु (आयुः) जीवनम् (प्रथमम्) प्रख्यातं प्रधानम् (प्रजाम्) पुत्रपौत्रभृत्यादिरूपां संततिम् (पोषम्) पोषणम् (रयिम्) धनम् (स्वाहा) आशीर्वादोऽस्तु ॥

    इस भाष्य को एडिट करें
    Top