अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 8
सूक्त - अङ्गिराः
देवता - चन्द्रमाः
छन्दः - संस्तारपङ्क्तिः
सूक्तम् - सन्नति सूक्त
दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः। ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहा॒म्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
स्वर सहित पद पाठदिश॑: । धे॒नव॑: । तासा॑म् । च॒न्द्र: । व॒त्स: । ता: । मे॒ । च॒न्द्रेण॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.८॥
स्वर रहित मन्त्र
दिशो धेनवस्तासां चन्द्रो वत्सः। ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥
स्वर रहित पद पाठदिश: । धेनव: । तासाम् । चन्द्र: । वत्स: । ता: । मे । चन्द्रेण । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(दुहाम्) दुहताम् प्रपूरयन्तु। अन्यत् पूर्ववत्। म २, ७ ॥
इस भाष्य को एडिट करें