अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 5
सूक्त - अङ्गिराः
देवता - द्यौः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
दि॒व्या॑दि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॑ दि॒व्या॑दि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
स्वर सहित पद पाठदि॒वि । आ॒दि॒त्याय॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । दि॒वि । आ॒दि॒त्याय॑ । स॒म्ऽअन॑मन् । ए॒व । मह्य॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.५॥
स्वर रहित मन्त्र
दिव्यादित्याय समनमन्त्स आर्ध्नोत्। यथा दिव्यादित्याय समनमन्नेवा मह्यं संनमः सं नमन्तु ॥
स्वर रहित पद पाठदिवि । आदित्याय । सम् । अनमन् । स: । आर्ध्नोत् । यथा । दिवि । आदित्याय । सम्ऽअनमन् । एव । मह्यम् । सम्ऽनम: । सम् । नमन्तु ॥३९.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(दिवि) आकाशे वर्तमानाय (आदित्याय) अ० १।९।१। प्रकाशमानाय सूर्याय। अन्यत् पूर्ववत्-म० १ ॥
इस भाष्य को एडिट करें