अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 9
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा उ॑। न॑मस्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम् ॥
स्वर सहित पद पाठअ॒ग्नौ । अ॒ग्नि: । च॒र॒ति॒ । प्रऽवि॑ष्ट: । ऋषी॑णाम् । पु॒त्र: । अ॒भि॒श॒स्ति॒ऽपा: । ऊं॒ इति॑ । न॒म॒:ऽका॒रेण॑ । नम॑सा । ते॒ । जु॒हो॒मि॒ । मा । दे॒वाना॑म् । मि॒थु॒या । क॒र्म॒ । भा॒गम् ॥३९.९॥
स्वर रहित मन्त्र
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ। नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥
स्वर रहित पद पाठअग्नौ । अग्नि: । चरति । प्रऽविष्ट: । ऋषीणाम् । पुत्र: । अभिशस्तिऽपा: । ऊं इति । नम:ऽकारेण । नमसा । ते । जुहोमि । मा । देवानाम् । मिथुया । कर्म । भागम् ॥३९.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(अग्नौ) सूर्यादितेजसि (अग्निः) सर्वव्यापकः परमेश्वरः (चरति) व्याप्नोति (प्रविष्टः) अन्तर्गतः (ऋषीणाम्) अ० २।६।१। साक्षात्कृतधर्मणां मुनीनाम्, विषयद्रष्टॄणामिन्द्रियाणां वा (पुत्रः) अ० १।११।५। पुनातीति पुत्रः। पविता शोधकः (अभिशस्तिपाः) अ० २।१३।३। हिंसाभयाद्ररक्षकः (उ) निश्चयेन (नमस्कारेण) सत्कारेण (नमसा) नमनेन, आदरेण (ते) तथाविधाय तुभ्यम् (जुहोमि) आत्मदानं करोमि (देवानाम्) महात्मनां (मिथुया) अ० ४।२९।७। मिथुना हिंसनेन दुष्कर्मणा (मा कर्म) कृञ् हिंसायाम्-माङि लुङि। मन्त्रे घसह्वर०। पा० २।४।८०। इति च्लेर्लुक्। मा कार्ष्म मा हिंसिष्म (भागम्) भग-अण्। ऐश्वर्याणां समूहम्। यद्वा, भज-घञ्। भजनीयं कर्म ॥
इस भाष्य को एडिट करें