Loading...
अथर्ववेद > काण्ड 4 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 7
    सूक्त - अङ्गिराः देवता - दिशः छन्दः - त्रिपदा महाबृहती सूक्तम् - सन्नति सूक्त

    दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥

    स्वर सहित पद पाठ

    दि॒क्षु । च॒न्द्राय॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । दि॒क्षु । च॒न्द्राय॑ । स॒म्ऽअन॑मन् । ए॒व । मह्य॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.७॥


    स्वर रहित मन्त्र

    दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्। यथा दिक्षु चन्द्राय समनमन्नेवा मह्यं संनमः सं नमन्तु ॥

    स्वर रहित पद पाठ

    दिक्षु । चन्द्राय । सम् । अनमन् । स: । आर्ध्नोत् । यथा । दिक्षु । चन्द्राय । सम्ऽअनमन् । एव । मह्यम् । सम्ऽनम: । सम् । नमन्तु ॥३९.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 7

    टिप्पणीः - ७−(दिक्षु) प्राच्यादिषु (चन्द्राय) आह्लादकाय चन्द्रमसे। अन्यत् पूर्ववत्। म० १ ॥

    इस भाष्य को एडिट करें
    Top