अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 6
सूक्त - अङ्गिराः
देवता - आदित्यः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
द्यौर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः। सा म॑ आदि॒त्येन॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
स्वर सहित पद पाठद्यौ: । धे॒नु: । तस्या॑: । आ॒दि॒त्य: । व॒त्स: । सा । मे॒ । आ॒दि॒त्येन॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.६॥
स्वर रहित मन्त्र
द्यौर्धेनुस्तस्या आदित्यो वत्सः। सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥
स्वर रहित पद पाठद्यौ: । धेनु: । तस्या: । आदित्य: । वत्स: । सा । मे । आदित्येन । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६-सर्वं पूर्ववत्-म० २, ५ ॥
इस भाष्य को एडिट करें