अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 10
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - निचृद्गायत्री
सूक्तम् - सर्पविषनाशन सूक्त
ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्। ता॒बुवे॑नार॒सं वि॒षम् ॥
स्वर सहित पद पाठता॒बुव॑म् । न । ता॒बुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । ता॒बुव॑म् । ता॒बुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.१०॥
स्वर रहित मन्त्र
ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम्। ताबुवेनारसं विषम् ॥
स्वर रहित पद पाठताबुवम् । न । ताबुवम् । न । घ । इत् । त्वम् । असि । ताबुवम् । ताबुवेन । अरसम् । विषम् ॥१३.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(ताबुवम्) कृवापा०। उ० १।१। इति तु गतिवृद्धिहिंसासु−उण्+वा गतिगन्धनयोः−क। वृद्धिप्रापकं वस्तु (न) निषेधे (ताबुवम्) तु हिंसायाम्−उण्+वा गतौ−क। पीडाप्रापकं वस्तु (न) (घ) अवधारणे (इत्) एव (त्वम्) सर्पः (असि) (ताबुवम्) तु हिंसायाम्−उण्+वा गन्धने−क। दुःखनाशकं वस्तु (ताबुवेन) दुःखनाशकेन कर्मणा (अरसम्) निर्बलम् (विषम्) सरलम् ॥
इस भाष्य को एडिट करें