अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्। खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ॥
स्वर सहित पद पाठद॒दि: । हि । मह्य॑म् । वरु॑ण: । दि॒व: । क॒वि: । वच॑:ऽभि: । उ॒ग्रै: । नि । रि॒णा॒मि॒ । ते॒ । वि॒षम् । खा॒तम् । अखा॑तम् । उ॒त । स॒क्तम् । अ॒ग्र॒भ॒म् । इरा॑ऽइव । धन्व॑न् । नि । ज॒जा॒स॒ । ते॒ । वि॒षम् ॥१३.१॥
स्वर रहित मन्त्र
ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम्। खातमखातमुत सक्तमग्रभमिरेव धन्वन्नि जजास ते विषम् ॥
स्वर रहित पद पाठददि: । हि । मह्यम् । वरुण: । दिव: । कवि: । वच:ऽभि: । उग्रै: । नि । रिणामि । ते । विषम् । खातम् । अखातम् । उत । सक्तम् । अग्रभम् । इराऽइव । धन्वन् । नि । जजास । ते । विषम् ॥१३.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ददिः) सर्वधातुभ्य इन्। उ० ४।११८। इति दद दाने−इन्। दाता (हि) अवश्यम् (मह्यम्) मदर्थम् (वरुणः) वरणीयः परमेश्वरः (दिवः) व्यवहारस्य (कविः) मेधावी (वचोभिः) वेदवचनैः (उग्रैः) प्रचण्डैः (नि) नितराम् (रिणामि) री गतिरेषणयोः। नाशयामि (ते) त्वदीयम् (विषम्) आरोग्यनाशकं द्रव्यम् (खातम्) खन्−क्त। विदारितम् (अखातम्) अविदारितम् (उत) अपि (सक्तम्) षञ्ज सङ्गे−क्त। अभिनिविष्टम् (अग्रभम्) अहं गृहीतवान् (इरा) इण् गतौ−रक्। जलम् (इव) यथा (धन्वन्) कनिन् युवृषतक्षि०। उ० १।१५६। इति धन्व गतौ−कनिन्। धन्वनि। मरुदेशे (नि) (जजास) जसु हिंसायां ताडने च। नाशं प्राप (ते) (विषम्) ॥
इस भाष्य को एडिट करें