अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सर्पविषनाशन सूक्त
यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्। गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ॥
स्वर सहित पद पाठयत् । ते॒ । अप॑ऽउदकम् । वि॒षम् । तत् । ते॒ । ए॒तासु॑ । अ॒ग्र॒भ॒म् । गृ॒ह्णामि॑ । ते॒ । म॒ध्य॒मम् । उ॒त्ऽत॒मम् । रस॑म् । उ॒त । अ॒व॒मम् । भि॒यसा॑ । ने॒श॒त् । आत् । ऊं॒ इति॑ । ते॒ ॥१३.२॥
स्वर रहित मन्त्र
यत्ते अपोदकं विषं तत्त एतास्वग्रभम्। गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥
स्वर रहित पद पाठयत् । ते । अपऽउदकम् । विषम् । तत् । ते । एतासु । अग्रभम् । गृह्णामि । ते । मध्यमम् । उत्ऽतमम् । रसम् । उत । अवमम् । भियसा । नेशत् । आत् । ऊं इति । ते ॥१३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यत्) यत्किञ्चित् (ते) तव (अपोदकम्) अपगतजलम् (विषम्) (तत्) (ते) तव (एतासु) नाडीषु वर्तमानम् (अग्रभम्) अहं गृहीतवान् (गृह्णामि) आददे (ते) तव (मध्यमम्) मध्यदेशे भवम् (उत्तमम्) उपरिदेशे भवम् (रसम्) विषप्रभावम् (उत) अपि च (अवमम्) अवद्यावमा०। उ० ५।५४। इति अव रक्षणादौ−अम। अधमम् (भियसा) भूरञ्जिभ्यां कित्। उ० ४।२१७। ञिभी−असुन्। भयेन (नेशत्) नश्येत् (आत्) अनन्तरम् (उ) अवश्यम् (ते) तव रसः ॥
इस भाष्य को एडिट करें