अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 4
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्। अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ॥
स्वर सहित पद पाठचक्षु॑षा । ते॒ । चक्षु॑: । ह॒न्मि॒ । वि॒षेण॑ । ह॒न्मि॒ । ते॒ । वि॒षम् । अहे॑ । म्रि॒यस्व॑ । मा । जी॒वी॒: । प्र॒त्यक् । अ॒भि । ए॒तु॒ । त्वा॒ । वि॒षम् ॥१३.४॥
स्वर रहित मन्त्र
चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम्। अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥
स्वर रहित पद पाठचक्षुषा । ते । चक्षु: । हन्मि । विषेण । हन्मि । ते । विषम् । अहे । म्रियस्व । मा । जीवी: । प्रत्यक् । अभि । एतु । त्वा । विषम् ॥१३.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(चक्षुषा) अनेन नेत्रेण (ते) तव (चक्षुः) नेत्रम् (हन्मि) नाशयामि (विषेण) (ते) तव (विषम्) (अहे) अ० २।५।५। आङ्+हन हिंसागत्योः इण्, डित्। हे आहननशील। सर्प (म्रियस्व) प्राणान् त्यज (मा जीवीः) जीवितो मा भूः (प्रत्यक्) प्रतिकूलगति। प्रतिमुखम् (अभि) अभितः (एतु) प्राप्नोतु (त्वा) त्वाम् (विषम्) ॥
इस भाष्य को एडिट करें