अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 5
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्रिष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः। मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ॥
स्वर सहित पद पाठकैरा॑त । पृश्ने॑ । उप॑ऽतृण्य । बभ्रो॒ इति॑ । आ । मे॒ । शृ॒ण॒त॒ । असि॑ता: । अली॑का: । मा । मे॒ । सख्यु॑: । स्ता॒मान॑म् । अपि॑ । स्था॒त॒ । आ॒ऽश्रा॒वय॑न्त: । नि । वि॒षे । र॒म॒ध्व॒म् । १३.५॥
स्वर रहित मन्त्र
कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः। मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥
स्वर रहित पद पाठकैरात । पृश्ने । उपऽतृण्य । बभ्रो इति । आ । मे । शृणत । असिता: । अलीका: । मा । मे । सख्यु: । स्तामानम् । अपि । स्थात । आऽश्रावयन्त: । नि । विषे । रमध्वम् । १३.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(कैरात) इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति कॄ−विक्षेपे−क। किराः शूकरादयोऽतन्ति यत्र। अत−अण्। किरातः शूकरादिगमनदेशः। तत्र जातः। पा० ४।३।२५। इति किरात−अण्। शूकरादिगमनदेशोत्पन्न, सर्प ! (पृश्ने) स्पृश−नि। हे स्पर्शनशील (उपतृण्य) उपतृण−यत्। उपगततृणदेशे भव (बभ्रो) डुभृञ्−कु। हे पिङ्गलवर्ण (आ) समन्तात् (मे) मम वचनम् (शृणुत) आकर्णयत (असिताः) कृष्णवर्णाः (अलीकाः) अलीकादयश्च। उ० ४।२५। इति अल वारणे−कीकन्। हे निवारणीयाः। हे घृणिता जीवाः (मा) निषेधे (मे) मम (सख्युः) मित्रस्य (स्तामानम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति ष्टै वेष्टने−मनिन्। वेष्टनशीलं गृहम् (अपि स्थात) माङि लुङि अडभावः। अभितिष्ठत प्राप्नुत (आश्रावयन्तः) स्वार्थे (णिच्) समन्तात् शृण्वन्तः (विषे) (नि रमध्वम्) निवर्तध्वम्। शान्ता भवत ॥
इस भाष्य को एडिट करें