Loading...
अथर्ववेद > काण्ड 5 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 11
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - निचृद्गायत्री सूक्तम् - सर्पविषनाशन सूक्त

    त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्। त॒स्तुवे॑नार॒सं वि॒षम् ॥

    स्वर सहित पद पाठ

    त॒स्तुव॑म् । न । त॒स्तुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । त॒स्तुव॑म् । त॒स्तुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.११॥


    स्वर रहित मन्त्र

    तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम्। तस्तुवेनारसं विषम् ॥

    स्वर रहित पद पाठ

    तस्तुवम् । न । तस्तुवम् । न । घ । इत् । त्वम् । असि । तस्तुवम् । तस्तुवेन । अरसम् । विषम् ॥१३.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 11

    टिप्पणीः - ११−(तस्तुवम्) सितनिगमि०। उ० १।९९। इति तसु उपक्षये−तुन्। उपक्षयो निन्दा। वा गन्धने−क। निन्दानाशकं वस्तु (न) इव (तस्तुवम्) तस्तु+वा गतौ−क। निन्दाप्रापकं वस्तु (न) निषेधे (घ इत्) अवश्यमेव (त्वम् असि) (अरसम्) (विषम्) (तस्तुवम्) निन्दाप्रापकं वस्तु (तस्तुवेन) निन्दानाशकेन कर्मणा ॥

    इस भाष्य को एडिट करें
    Top