अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 9
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - भुरिग्जगती
सूक्तम् - सर्पविषनाशन सूक्त
क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का। याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ॥
स्वर सहित पद पाठक॒र्णा । श्वा॒वित् । तत् । अ॒ब्र॒वी॒त् । गि॒रे: । अ॒व॒ऽच॒र॒न्ति॒का । या: । का: । च॒ । इ॒मा: । ख॒नि॒त्रिमा॑: । तासा॑म् । अ॒र॒सऽत॑मम् । वि॒षम् ॥१३.९॥
स्वर रहित मन्त्र
कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका। याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥
स्वर रहित पद पाठकर्णा । श्वावित् । तत् । अब्रवीत् । गिरे: । अवऽचरन्तिका । या: । का: । च । इमा: । खनित्रिमा: । तासाम् । अरसऽतमम् । विषम् ॥१३.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(कर्णा) कर्ण−पचाद्यच्। कर्णयुक्ता (श्वावित्) शुना आविध्यते श्वन्+आ−व्यध ताडने−क्विप्। शल्यकी (तत्) (अब्रवीत्) अकथयत् (गिरेः) शैलस्य (अवचरन्तिका) चर−शतृ, ङीप्, स्वार्थे कन्, टाप्। अधोभागे चरणशीला (याः) (काः) (च) पादपूरणे (इमाः) (खनित्रिमाः) राशदिभ्यां त्रिप्। उ० ४।६७। इति खनु विदारणे−त्रिप्, इडागमः। खनित्रिं मायते। माङ् माने−क। खनित्रौ गर्ते मानशीला निवासशीलाः। सर्पिण्यः (तासाम्) सर्पिणीनाम् (अरसतमम्) अतिशयेन निर्बलम् (विषम्) सरलम् ॥
इस भाष्य को एडिट करें