Loading...
अथर्ववेद > काण्ड 5 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 10
    सूक्त - शुक्रः देवता - कृत्यापरिहरणम् छन्दः - निचृद्बृहती सूक्तम् - कृत्यापरिहरण सूक्त

    पु॒त्र इ॑व पि॒तरं॑ गच्छ स्व॒ज इ॑वा॒भिष्ठि॑तो दश। ब॒न्धमि॑वावक्रा॒मी ग॑च्छ॒ कृत्ये॑ कृत्या॒कृतं॒ पुनः॑ ॥

    स्वर सहित पद पाठ

    पु॒त्र:ऽइ॑व । पि॒तर॑म् । ग॒च्छ॒ । स्व॒ज:ऽइ॑व । अ॒भिऽस्थि॑त: । द॒श॒ । ब॒न्धम्ऽइ॑व । अ॒व॒ऽक्रा॒मी । ग॒च्छ॒ । कृत्ये॑ । कृ॒त्या॒ऽकृत॑म् । पुन॑: ॥१४.१०॥


    स्वर रहित मन्त्र

    पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश। बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः ॥

    स्वर रहित पद पाठ

    पुत्र:ऽइव । पितरम् । गच्छ । स्वज:ऽइव । अभिऽस्थित: । दश । बन्धम्ऽइव । अवऽक्रामी । गच्छ । कृत्ये । कृत्याऽकृतम् । पुन: ॥१४.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 10

    टिप्पणीः - १०−(पुत्रः) कुलशोधकः सन्तानः (इव) यथा (पितरम्) पालकम् जनकम्, (गच्छ) प्राप्नुहि (स्वजः) ष्वञ्ज परिष्वङ्गे−पचाद्यच्, पृषोदरादित्वान्नलोपः। सर्पः (इव) (अभिष्ठितः) पादैरभिभूतः (दश) दंशय (बन्धम्) (इव) यथा (अवक्रामी) उल्लङ्घ्य प्रतिगामी (गच्छ) (कृत्ये) हिंसाशक्ते (कृत्याकृतम्) हिंसाकारिणम् ॥१०॥

    इस भाष्य को एडिट करें
    Top