अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 2
सूक्त - शुक्रः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
अव॑ जहि यातु॒धाना॒नव॑ कृत्या॒कृतं॑ जहि। अथो॒ यो अ॒स्मान्दिप्स॑ति॒ तमु॒ त्वं ज॑ह्योषधे ॥
स्वर सहित पद पाठअव॑ । ज॒हि॒ । या॒तु॒ऽधाना॑न् । अव॑ । कृ॒त्या॒ऽकृत॑म् । ज॒हि॒ । अथो॒ इति॑ । य: । अ॒स्मान् । दिप्स॑ति । तम् । ऊं॒ इति॑ । त्वम् । ज॒हि॒ । ओ॒ष॒धे॒ ॥१४.२॥
स्वर रहित मन्त्र
अव जहि यातुधानानव कृत्याकृतं जहि। अथो यो अस्मान्दिप्सति तमु त्वं जह्योषधे ॥
स्वर रहित पद पाठअव । जहि । यातुऽधानान् । अव । कृत्याऽकृतम् । जहि । अथो इति । य: । अस्मान् । दिप्सति । तम् । ऊं इति । त्वम् । जहि । ओषधे ॥१४.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अव जहि) विनाशय (यातुधानान्) अ० १।७।१। यातनाप्रदान् (कृत्याकृतम्) अ० ४।१७।४। हिंसाकारिणम् (अथो) अपि च (यः) शत्रुः (अस्मान्) धार्मिकान् (दिप्सति) दम्भितुं हिंसितुमिच्छति (तम् उ) तमपि (त्वम्) (जहि) (ओषधे) हे अन्नवत्तापनाशक मनुष्य ॥
इस भाष्य को एडिट करें