Loading...
अथर्ववेद > काण्ड 5 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 9
    सूक्त - शुक्रः देवता - कृत्यापरिहरणम् छन्दः - त्रिपदा विराडनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    कृत॑व्यधनि॒ विद्य॒ तं यश्च॒कार॒ तमिज्ज॑हि। न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि ॥

    स्वर सहित पद पाठ

    कृत॑ऽव्यधनि । विध्य॑ । तम् । य: । च॒कार॑ । तम् । इत् । ज॒हि॒ । न । त्वाम् । अच॑क्रुषे । व॒यम् । व॒धाय॑ । सम् । शि॒शी॒म॒हि॒ ॥१४.९॥


    स्वर रहित मन्त्र

    कृतव्यधनि विद्य तं यश्चकार तमिज्जहि। न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥

    स्वर रहित पद पाठ

    कृतऽव्यधनि । विध्य । तम् । य: । चकार । तम् । इत् । जहि । न । त्वाम् । अचक्रुषे । वयम् । वधाय । सम् । शिशीमहि ॥१४.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 9

    टिप्पणीः - ९−(कृतव्यधनि) व्यध ताडने−ल्युट्, ङीप्। कृतानि उद्यतानि व्यधनानि छेदनसाधनानि आयुधानि यया सा कृतव्यधनी, सेना तत्सम्बुद्धौ (विध्य) छिन्धि (तम्) तर्द हिंसायाम्−ड। चोरम् (यः) शत्रुः (चकार) कृञ् हिंसायाम्−लिट्। हिंसितवान् (तम्) (इत्) एव (जहि) नाशय (न) निषेधे (त्वाम्) सेनाम् (अचक्रुषे) कृञ् हिंसायाम्−क्वसु। अहिंसां कृतवते पुरुषाय (वयम्) सेनापतयः (वधाय) हननाय (सम्) सम्यक् (शिशीमहि) शो तनूकरणे। श्यनः श्लुः। विधौ लिङि छान्दसं रूपम्। श्येम तीक्ष्णीकुर्याम ॥

    इस भाष्य को एडिट करें
    Top